ध्यान
ॐ ध्यायेयं रत्नपीठे शुक्कलपठितं शृण्वतीं श्यामलांगीं
न्यस्तैकांडघ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कल्हाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातंगीशंखपात्रां मधुरमधुमदांचित्रकोद्भासिभालाम् ॥
ॐ ऋषिरुवाच ॥१॥
आज्ञाप्तास्ते ततो दैत्याश्चण्डमुंडपुरोगमाः
चतुरंगबलोपेता ययुरभ्युद्यतायुधाः -२
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्
सिंहस्योपरि शैलेन्द्रशृंगे महति काचने -३
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः
आकृष्ट चापासिधरास्तथान्ये तत्समीपगाः -४
ततः कोपं चकारोच्चैरम्भिका तानरीन् प्रति
कोपेन चास्या वदनं मषीवर्णमभूत्तदा -५
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद् द्रुतम्
काली करालवदना विनिष्क्रान्तासिपाशिनी -६
विचित्रखट्वांगधरा नरमालाविभूषणा
द्वीपिचर्मपरिधाना शुष्कमांसातिभैरवा -७
अतिविस्तारवदना जिह्वा ललनभीषणा
निमग्ना रक्तनयना नादापूरितदिंग्मुखा -८
सा वेगेनाभिपतिता घातयन्ती महासुरान्
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् -९
पार्ष्णग्राहांग्कुशग्राहि योधघण्टासमन्वितान्
समादायैकहस्तेन मुखे चिक्षेप वारणान् -१०
तथैव योधं तुरगै रथं सारथिना सह
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् -११
एकं जग्राहकेशुषु ग्रीवायामथ चापरम्
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् -१२
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः
मुखेन जग्राह रुषा दशनैर्मथितान्यपि -१३
बलिनां तद् बलं सर्वमसुराणां दुरात्मनाम्
ममर्दाभक्षयच्चान्यनन्यांश्चाताडयत्तथा -१४
असिना निहताः केचित् केचित्खट्वांगताडिताः
जग्मुर्विनाशमसुरा दंताग्राभिहतास्तथा -१५
क्षणेन तद् बलं सर्वमसुराणां निपातितम्
दृष्ट्वा चंडोऽभिदुद्राव तां कालीमतिभीषणाम् -१६
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः
छादयामास चक्रैश्च मुंडः क्षिप्तैः सहस्रशः -१७
तानि चक्राण्यनेकानि विशमानानि तन्मुखम्
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् -१८
ततो जहासातिरुषा भीमं भैरवनादिनी
काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला -१९
उत्थाय च महासिं हं देवी चंडमधावत
गृहित्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् -२०
अथ मुंडोऽभ्यधावत्तां दृष्ट्वा चंडं निपातितम्
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा -२१
हतशेषं ततः सैन्यं दृष्ट्वा चंडं निपातितम्
मुंडं च सुमहावीर्यं दिशो भेजे भयातुरम् -२२
शिरश्चण्डस्य काली च गृहीत्वा मुंडमेव च
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चंडिकाम् -२३
मया तवात्रोपहृतौ चंडमुंडौ महापशू
युद्धे यज्ञे स्यं शुंभं निशुंभं च हनिष्यसि -२४
ऋषिरुवाच ॥२५॥
तावानीतौ ततो दृष्ट्वा चंडमुंडौ महासुरौ
उवाच कालीं कल्याणी ललितं चंडिका वचः -२६
यस्माच्चंडं च मुंडं च गृहीत्वा त्वमुपागता
चामुंडेति लोके ख्याता देवि भविष्यसि -२७
इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये चंडमुंडवधो नाम सप्तमोऽध्यायः ।
હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને કોળાના ટૂકડા માતાઓને ચડાવવા.
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
सांगायै सपरिवारायै सवाहनायै सायुधायै ।
कर्पूरबीजाधिष्ठात्र्यै कालीचामुंडायै देव्यै महाहुतिं समर्पयामि स्वाहा ॥
सघृतं कूष्मांडफलखंडं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥