Archive for ફેબ્રુવારી 20th, 2009

ચોખા

ફેબ્રુવારી 20, 2009

ચોખા ચોખા મધુર, સ્નીગ્ધ, બળ આપનાર, તુરા, પચવામાં હળવા, રુચી ઉપજાવનાર, સ્વરને સારો કરનાર, વીર્યવર્ધક, શરીરને પુષ્ટ કરનાર, થોડા પ્રમાણમાં વાયુ તથા કફ કરનાર, ઠંડા, પીત્તશામક, મુત્રને વધારનાર, મળને બાંધનાર તથા સરકાવનાર, પ્રમેહ અને કૃમી મટાડનાર છે. પૌંઆ પચવામાં ભારે તથા વાયુનો નાશ કરનાર છે. દુધ સાથે ખવાતા પૌંઆ મૈથુનશક્તી વધારનાર, પુષ્ટીકારક, બળ આપનાર અને ઘી અને સાકર ઉમેરી લેવાય તો પરમ પીત્તશામક છે. ચોખા ખાવાથી ગૅસ, કબજીયાત, અપચો કે આફરા જેવું લાગતું હોય તો ચોખા ખાઈ ઉપર એક-બે ટુકડા કોપરું ખુબ ચાવીને ખાવું. થોડા દીવસ આ મુજબ નીયમીત કરવાથી ચોખાનું પાચન બરાબર થવા લાગે છે.

અધ્યાય૧૧ નારાયણીસ્તુતિ

ફેબ્રુવારી 20, 2009

અધ્યાય ૧૧ નારાયણીસ્તુતિ

ध्यान

ॐ बालरविद्युतिमिन्दुकिरीटां तुंगकुचां नयनत्रययुक्ताम् ।

स्मेरमुखीं वरदांकुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥

ॐ ऋषिरुवाच ॥१॥

देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम्

कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकासिताशाः -२

देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य

प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्चरी देवि चराचरस्य -३

आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि

अपां स्वरूपस्थितया त्वयैतदाप्यायते कृत्स्नमलंघ्यवीर्ये -४

त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया

संमोहितं देवि समस्तमेतत् त्वं वैप्रसन्नाभुवि मुक्तिहेतुः -५

विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु

त्वयैकया पूरितमंबयैतत् का ते स्तुतिः स्तव्यपरा परोक्तिः -६

सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः -७

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते -८

कलाकाष्ठादिरूपेण परिणामप्रदायिनी

विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते -९

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते -१०

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते -११

शरणागतदीनार्त परित्राणपरायणे

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते -१२

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि

कौशांभः क्षरिके देवि नारायणि नमोऽस्तु ते -१३

त्रिशूलचंद्राहिधरे महावृषभवाहिनि

माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते -१४

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते -१५

शंखचक्रगदाशारंग गृहीत परमायुधे

प्रसीद वैष्णवी रूपे नारायणि नमोऽस्तु ते -१६

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुंधरे

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते -१७

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान्कृतोद्यमे

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते -१८

किरीटिनि महावज्रे सहस्रनयनोज्जले

वृत्रप्राणहरे चैंद्रि नारायणि नमोऽस्तु ते -१९

शिवदूतीस्वरूपेण हतदैत्यमहाबले

घोररूपे महारावे नारायणि नमोऽस्तु ते -२०

दंष्ट्राकरालवदने शिरोमालाविभूषणे

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते -२१

लक्ष्मी लज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे

महारात्रि महाविद्ये नारायणि नमोऽस्तु ते -२२

मेधे सतस्वति वरे भूति बाभ्रवि तामसि

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते -२३

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते -२४

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्

पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते -२५

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते -२६

हिनस्ति दैत्यतेजासि स्वनेनापूर्य या जगत्

सा घंटा पातु नो देवि पापेभ्योऽनः सुतानिव -२७

असुरासृग्वसापंक चर्चितस्ते करोज्ज्वलः

शुभाय खड्गो भवतु चंडिके त्वां नता वयम् -२८

रोगानशेषानपहंसि तुष्टारुष्टा तु कामान्सकलानभीष्टान्

त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति -२९

एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम्

रूपैरनेकैर्बहुधाऽऽत्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या -३०

विद्यासु शास्त्रेषु विवेकदीपेष्वाद्येषु वाक्येषु च का त्वदन्या

ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वम् -३१

रक्षांसि यत्रोग्रविषाश्च नागा यत्ररयो दस्युबलानि यत्र

दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् -३२

विश्वेश्वरि त्वं परिपासि विश्वं विश्वासत्मिका धारयसीति विश्वम्

विश्वेशवंद्या भवती भवंति विश्वाश्रया ये त्वयि भक्ति नम्राः -३३

देवि प्रसीद परिपालय नोऽरिभीतेर्नित्यं यथासुरवधादधुनैव सद्यः

पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् -३४

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव -३५

देव्युवाच ॥३६॥

वरदाहं सुरगणा वरं यन्मनसेच्छथ

तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् -३७

देवा ऊचुः ॥३८॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् -३९

देव्युवाच ॥४०॥

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतितमे युगे

शुंभो निशुंभश्चैवान्यावुत्पत्स्येते महासुरौ -४१

नंदगोपगृहे जाता यशोदागर्भसंभवा

ततस्तौ नाशयिष्यामि विंध्याचलनिवासिनी -४२

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले

अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् -४३

भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान्महासुरान्

रक्ता दंता भविष्यन्ति दाडिमीकुसुमोपमाः -४४

ततो मां देवता स्वर्गे मर्त्यलोके च मानवाः

स्तुवंतो व्याहरिष्यन्ति सततं रक्तदंतिकाम् -४५

भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि

मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा -४६

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन्

कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः -४७

ततोऽहखिलं लोकमात्मदेहसमुद्भवैः

भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः -४८

शाकंभरीति विख्यातिं तदा यास्याम्यहं भुवि

तत्रेव च वधिष्यामि दुर्गमाख्यं महासुरम् -४९

दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति

पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले -५०

रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः -५१

भीमा देवीति विख्यातं तन्मे नाम भविष्यति

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति -५२

तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्पदम्

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् -५३

भ्रामरीति च मां लोकास्तदा स्तोष्यंति सर्वतः

ईत्थं यदा बाधा दानवोत्या भविष्यति -५४

तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् -५५

ॐ इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये देव्या स्तुतिर्नामैकादशोध्यायः ।

હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને દાડમ માતાઓને ચડાવવાં.

ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

सांगायै सपरिवारायै सवाहनायै सायुधायै ।

सर्वनारायण्यै महाहुतिं समर्पयामि स्वाहा ॥

सघृतं दाडिमफलं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥