॥ ऋषिरुवाच ॥
ॐ नन्दा भगवती नाम या भविष्यति नंदजा
स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगतत्रयम् -१
कनकोत्तमकान्तिः सा सुकांतिकनकांबरा
देवी कनकवर्णाभा कनकोत्तमभूषणा -२
कमलांकुशपाशाब्जैरलंकृतचतुर्भुजा
इन्दिरा कमला लक्ष्मीः सा श्रीरुक्मांबुजासना -३
या रक्तदंतिका नाम देवी प्रोक्ता मयानघ
तस्याः स्वरूपं वक्ष्यामि श्रृणु सर्वभयापहम् -४
रक्तांबरा रक्तवर्णा रक्तसर्वांगभूषणा
रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा -५
रक्ततीक्ष्णनखा रक्तदशना रक्तदंतिका
पति नारीवानुरक्ता देवी भक्तं भजेज्जनम् -६
वसुधेव विशाला सा सुमेरुयुगलस्तनी
दीर्घौ लंबावतिस्थूलौ तावतीव मनोहरौ -७
कर्कशावतिकान्तौ तौ सर्वानंदपयोनिधी
भक्तान्संपाययेद्देवी सर्वकामदुधौ स्तनौ -८
खड्गं पात्रं च मुसलं लांलगं च बिभर्ति सा
आख्याता रकतचामुंडा देवी योगेश्वरीति च -९
अनया व्याप्तमखिलं जगत्स्थावरजंगमम्
इमां यः पूजयेद् भक्त्या स व्याप्नोति चराचरम् -१०
(भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात्)
अधीते य इमं नित्यं रक्तदंत्या वपुः स्तवम्
तं सा परिचरेद्देवी पतिं प्रियमिवांगना -११
शाकंभरी नीलवर्णा नीलोत्पलविलोचना
गंभीरनाभिस्त्रिवली विभूषिततनूदरी -१२
सुकर्कशसमोत्तुंग वृत्त पीनघनस्तनी
मुष्टिं शिलीमुखापूर्णं कमलं कमलालया -१३
पुष्पपल्लवमूलादि फलाढ्यं शाकसंचयम्
काम्यनन्तरसैर्युक्तं क्षुत्तृणमृत्युभयापहम् -१४
कार्मुकं च स्फुरत्कांति बिभ्रती परमेश्वरी
शाकंभरी शताक्षी सा सैव दुर्गा प्रकीर्तिता -१५
विशोका दुष्टदमनी शमनी दुरितापदाम्
उमा गौरी सती चंडी कालिका सा च पार्वती -१६
शाकंभरी स्तुवन् ध्यायन् जपन् संपूज्यन्नमन्
अक्षय्यमश्नुते शग्रमन्नपानामृतं फलम् -१७
भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा
विशाललोचना नारी वृत्तपीनपयोधरा -१८
चंद्रहासं च डमरुं शिरः पात्रं च बिभ्रती
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता -१९
तजोमंडलदुर्घर्षा भ्रामरी चित्रकांतिभृत्
चित्रानुलेपना देवी चित्राभरणभूषिता -२०
चित्रभ्रमरपाणिः सा महामारीति गीयते
इत्येता मूर्तयो देव्या याः ख्याता वसुधाधिप -२१
जगन्मतुश्चण्डिकायाः कीर्तिताः कामधेनवः
इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया -२२
व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकम्
तस्मात् सर्वप्रयत्नेन देवीं जप निरन्तरम् -२३
सप्तजन्मार्जीतैर्घोरैर्ब्रह्मत्यासमैरपि
पाठमात्रेण मन्त्राणां मुच्यते सर्वकिल्बिषैः -२४
देव्या ध्यानं मया ख्यातं गुह्याद् गुह्यतरं महत्
तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् -२५
(एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि ।
सर्वरूपमयी देवी सर्वंदेवीमयं जगत् ॥
अतोऽहं विश्वरूपां तां नमामि परमेश्वरीम् ॥)
સાત વાર શાપોદ્ધાર મંત્રનો જપ કરવો
ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चंडिकादेव्यै शपानुग्रहं कुरु कुरु स्वाहा ॥
૨૧ વાર ઉત્કીલન મંત્ર
ॐ श्रीं क्लीं ह्रीं सप्तशति चंडिके उत्कीलनं कुरु कुरु स्वाहा ॥