Archive for ફેબ્રુવારી 18th, 2009

ચીત્રકાદીવટી

ફેબ્રુવારી 18, 2009

ઉપચારો નીષ્ણાતનું માર્ગદર્શન લઈને કરવા, અહીં આપવાનો હેતુ માત્ર માહીતીનો છે. જુઓ લીન્ક https://gandabhaivallabh.wordpress.com/2011/01/29/એક-વીનંતી/

ચીત્રકાદીવટી ચીત્રક, ચવક, સુંઠ, મરી, પીપર, પીપરીમુળ (ગંઠોડા), સીંધવ, સંચળ, બીડલવણ, વરાગડું મીઠું, સાદું મીઠું, જવખાર, હીંગ, સાજીખાર, અજમોદ, કાળીપાટ, જીરું, ધાણા અને ભોંયરીંગણીનાં મુળને સમાન ભાગે ખાંડી બારીક ચુર્ણ બનાવી દાડમના રસમાં અથવા બીજોરાના રસમાં ખુબ વાટી વટાણા જેવડી ગોળીઓ બનાવવી. એને ચીત્રાદીવટી કહે છે. આ ગોળી બેથી ત્રણ સવાર, બપોર, સાંજ પાણી સાથે લેવાથી ઉદરશુળ, આમશુળ, અરુચી, મંદાગ્ની અને પેટમાંનો વાયુપ્રકોપ મટે છે. તે જઠરાગ્નીને પ્રદીપ્ત કરી આમને પચાવે છે. કફજન્ય અગ્નીમાંદ્યમાં પણ ખુબ ગુણકારી છે.

અધ્યાય૧૦ શુંભવધ

ફેબ્રુવારી 18, 2009

અધ્યાય ૧૦ શુંભનો વધ

ध्यान

ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्निनेत्रां धनुश्शरयुतांकुशपाशशूलम् ।

रम्यैर्भुजेश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम् ॥

ॐ ऋषिरुवाच ॥१॥

निशुंभं निहतं दृष्ट्वा भ्रातरं प्राणसंमितम्

मन्यमानं बलं चैव शुंभः क्रुद्धोऽब्रवीद्वचः -२

बलावलेपाद्दुष्टे त्वं मा दुर्गे गर्वमावह

अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी -३

देव्युवाच ॥७॥

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता

तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव -८

ऋषिरुवाच ॥९॥

ततः प्रववृतेयुद्धं देव्याः शुंभस्य चोभयोः

पश्यतां सर्वदेवानामसुराणां च दारुणम् -१०

शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः

तयोर्युद्धमभूद्भूयः सर्वलोकभयंकरम् -११

दिवान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका

बभंज तानि दैत्येन्द्रस्तत्प्रतिघातकर्तृभिः -१२

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी

बभंज लीलयैवोग्रहुंकारोच्चारणादिभिः -१३

ततः शरशतैर्देवीमाच्छादयत सोऽसुरः

सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः -१४

छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे

चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् -१५

ततः खड्गमुपादाय शतचंद्रं च भानुमत्

अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः -१६

तस्यापतत एवाशु खड्गं चिच्छेद चंडीका

धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् -१७

हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः

जग्राह मुद्गरं घोरमंबिकानिधनोद्यतः -१८

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः

तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् -१९

स मुष्टिं पातयामास हृदये दैत्यपुंगवः

देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् -२०

तलप्रहाराभिहतो निपपात महीतले

स दैत्यराजः सहसा पुनरेव तथोत्थितः -२१

उत्पत्य च प्रगृह्योच्चैदेवीं गगनमास्थितः

तत्रापि सा निराधारा युयुधे तेन चंडिका -२२

नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम्

चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् -२३

ततो नियुद्धं सुचिरं कृत्वा तेनांबिका सह

उत्पात्य भ्रामयामास चिक्षेप धरणीतले -२४

स क्षिप्तो धरणिं प्राप्यमुष्टिमुद्यम्य वेगितः

अभ्यधावत दुष्टात्मा चंडिकानिधनेच्छाया -२५

तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम्

जगत्यां पातयामास भित्त्वा शूलेन वक्षसि -२६

स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः

चालयान् सकलां पृथ्वीं साब्धिद्विपां सपर्वताम् -२७

ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि

जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः -२८

उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः

सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते -२९

ततो देवगणाः सर्वे हर्षनिर्भरमानसाः

बभूवुर्निहते तस्मिन् गंधर्वा ललितं जगुः -३०

अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः -३१

जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः -३२

ॐ इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वंतरे देवी माहात्म्ये शुंभवधो नाम दशमोऽध्यायः ।

હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને मातुलिंगफल માતાઓને ચડાવવાં.

ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

सांगायै सपरिवारायै सवाहनायै सायुधायै ।

सिंहवाहनायै त्रिशूलधारिण्यै महाहुतिं समर्पयामि स्वाहा ॥

सघृतं मातुलिंगफलं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥