Archive for ફેબ્રુવારી 11th, 2009

ચણા

ફેબ્રુવારી 11, 2009

ઉપચારો નીષ્ણાતનું માર્ગદર્શન લઈને કરવા, અહીં આપવાનો હેતુ માત્ર માહીતીનો છે. જુઓ લીન્ક https://gandabhaivallabh.wordpress.com/2011/01/29/એક-વીનંતી/

ચણા ખુબ પૌષ્ટીક છે. તે મીઠા, વાતકર, રોચક, લુખા, હલકા, ઠંડા, ગડગડાટ કરનાર, રંગ સુધારનાર અને બળવર્ધક છે. તે કમળો, માથાનો દુ:ખાવો, રક્તપીત્ત, કફરોગ, પીત્તરોગ, વગેરેમાં ફાયદાકારક છે.

(૧) રાત્રે ૫૦ ગ્રામ ચણા કે ચણાની દાળ પલાળી સવારે નરણા કોઠે ખુબ ચાવીને ખાવા. માત્ર એક મહીનાના પ્રયોગથી જ શક્તીમાં ખુબ લાભ થશે. આ પ્રયોગ દરમીયાન બહુ ખાવું નહીં. વારંવાર કે આચરકુચર ખાવું નહીં. નહીંતર ચણા પચશે નહીં અને ગૅસ કરશે.

(૨) કમળાના રોગમાં શેકેલા, બાફેલા કે પલાળેલા ચણા ખુબ ચાવીને ખાવાથી તે દવાનું કામ કરે છે.

(૩) કફવાળી ઉધરસમાં રાત્રે શેકેલા ચણા ખાઈ પાણી પીધા વગર સુઈ જવાથી લાભ થાય છે.

(૪) માથું દુ:ખતું હોય તો શેકેલા ચણા ખાઈ ઉપર પાણી ન પીવું.

(૫) રાત્રે પલાળેલા કે ફણગાવેલા ચણા કે ચણાની દાળ માત્ર દુધ સાથે લેવાથી શરીર પુષ્ટ થાય છે, નબળાઈ દુર થાય છે.

(૬) રાત્રે શેકેલા ચણા ખાઈ ઉપર દુધ પીવાથી કફ દુર થાય છે.

(૭) ચણા ખાઈ ગરમ પાણી પીવાથી અવાજ ઉઘડે છે.

(૮) ગોળ-ચણા ખાવાથી અવાજ ઉઘડે છે.

(૯) ગરમાગરમ ચણા ખાવાથી દુઝતા હરસનો રક્તસ્રાવ મટે છે.

(૧૦) ચણાને રાત્રે સરકામાં પલાળી રાખી સવારે ખાલી પેટે ખાવાથી કૃમી, પેટનાં દર્દ તથા ઉદરશુળ મટે છે.

(૧૧) ચણાનો લોટ ચોળીને નાહવાથી પરસેવાની ગંધ તથા ખુજલી મટે છે. (૧૨) ચણાનો લોટ પાણીમાં પીસી મધ મેળવી લગાડવાથી અંડકોષનો સોજો મટે છે.

અધ્યાય૪ શક્રાદયસ્તુતિ

ફેબ્રુવારી 11, 2009

અધ્યાય ૪ – શક્રાદય સ્તુતિ

ध्यान

ॐ कालाभ्राभांकटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां

शंखं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।

सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्ती

ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥

ॐ ऋषिरुवाच ॥१॥

शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन् दुरात्मनि सुरारिबले च देव्या

तां तुष्टवुः प्रणतिनम्रशिरोरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः -२

देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या

तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः -३

यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च

सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु -४

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः

श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम्५

किं वर्णयाम तव रूपमचिंत्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि

किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु -६

हेतुः समस्तजगतां त्रिगुणापि दोषैर् न ज्ञायसे हरिहरादिभिरप्यपारा

सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या -७

यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि

स्वाहासि वै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमत एव जनैः स्वधा च-८

या मुक्तीहेतुरविचिंत्यमहाव्रता त्वमभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर् विद्यासि सा भगवती परमा हि देवि -९

शब्दात्मिका सुविमलर्ग्यजुषां निधानमुद्गीरथरम्यपदपाठवतां च साम्नाम्

देवीत्रयी भगवती भवभावनाय वार्त्ता च सर्वजगतां परमार्तिहन्त्री -१०

मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाभवसागरनौरसंगा

श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा -११

ईषत्सहासममलं परिपूर्णचंद्रबिंबानुकारि कनकोत्तमकान्तिकान्तम्

अत्यद्भुतंप्रहृतमात्तरुषा तथापि वक्त्रं विलोक्यसहसा महिषासुरेण -१२

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालमुद्यच्छशांकसदृशच्छवि यन्न सद्यः

प्राणान्मुमोचमहिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन -१३

देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि

विज्ञातमेतदधुनैव यदस्तमेतन् नीतं बलं सुविपुलं महिषासुरस्य -१४

ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः

धन्यास्तएव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना -१५

धर्म्याणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति

स्वर्गं प्रयाति च ततो भवतीप्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन -१६

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्मृतामतिमतीव शुभां ददासि

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता -१७

एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम्

संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवि -१८

दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वसुरानरिषु यत्प्रहिणोषि शस्त्रम्

लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी १९

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम्

यन्नागता विलयमंशुमदिन्दुखण्डयोग्याननं तव विलोक्यतां तदेतत् -२०

दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिंत्यमतुल्यमन्यैः

वीर्यं च हन्तृहृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैवदया त्वयेत्थम् -२१

केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र

चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि -२२

त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा

नीता दिवं रिपुगणा भयमप्यपास्तमस्माकमुन्मदसुरारिभवं नमस्ते -२३

शूलेन पाहि नो देवि खड्गेन चाम्बिके

घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च -२४

प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि -२५

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते

यानि चात्यन्तैंघोराणि तै रक्षास्मांस्तथा भुवम् -२६

खड्गशूलगदादीनि यानि चास्त्राणी तेऽम्बिके

करपल्लवसंगीनि तैरस्मान् रक्ष सर्वतः -२७

ऋषिरुवाच ॥२८॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः

अर्चिता जगतां धात्री तथा गंधानुलेपनैः -२९

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् -३०

देव्युवाच ॥३१॥

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवांछितम् -३२

देवा ऊचुः ॥३३॥

भगवत्या कृतं सर्वं न किंचिदवशिष्यते ३४

यदयं निहतः शत्रुरस्माकं महिषासुरः

यदि चापि वरो देयस्त्वयास्माकं महेश्वरि -३६

तस्य वित्तर्द्विविभवैर्धनदारादिसंपदाम्

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके -३७

ऋषिरुवाच ॥३८॥

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽऽत्मनः

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप -३९

ईत्येतत्कथितं भूप संभूता सा यथा पुरा

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी -४०

पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत्

वधाय दुष्टदैत्यानां तथा शुम्भनिशुंभयोः -४१

रक्षणाय च लोकानां देवानामुपकारिणी

तच्छृणुष्वमयाऽऽख्यातं यथावत्कथयामि ते -४२

ॐ इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥

હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને સોપારી માતાઓને ચડાવવાં.

ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

सांगायै सपरिवारायै सवाहनायै सायुधायै ।

त्रिवर्णात्मिकायै सक्तिलक्ष्म्यै महालक्ष्म्यै महाहुतिं समर्पयामि स्वाहा ॥

सघृतं पूगीफलं नागवल्लीदलद्वयसहितं पूजितं जुहुयात्