Archive for ફેબ્રુવારી 13th, 2009

ચણોઠી

ફેબ્રુવારી 13, 2009

ઉપચારો નીષ્ણાતનું માર્ગદર્શન લઈને કરવા, અહીં આપવાનો હેતુ માત્ર માહીતીનો છે. જુઓ લીન્ક https://gandabhaivallabh.wordpress.com/2011/01/29/એક-વીનંતી/

ચણોઠી : ચોમાસામાં ચણોઠીની મોટી વેલ થાય છે. એનાં પાન આમલી જેવાં જ પણ મીઠાં અને કોમળ હોય છે. તેની લાલ સફેદ અને કાળી એમ ત્રણ જાત થાય છે. ઔષધમાં સફેદ ચણોઠી ઉત્તમ ગણાય છે.

ચણોઠીને શુદ્ધ કરવા માટે ત્રણ કલાક દુધમાં ઉકાળી ઉપરની છાલ દુર કરી પાણીથી ધોઈ તડકામાં સુકવી ચુર્ણ બનાવી વાપરવું. ચણોઠીનાં મુળ, પાન અને ફળ પણ ઔષધમાં વપરાય છે.

ચણોઠી કડવી, તુરી અને ગરમ છે. એ આંખ, ચામડી, વાળ, કફ, પીત્ત, કૃમી, ઉંદરી, કોઢ, વ્રણ વગેરે રોગોમાં વપરાય છે. ચણોઠી વાજીકર અને બળકારક છે.

(૧) સફેદ ચણોઠીનું ચુર્ણ ચોપડવાથી માથાની ઉંદરી-ટાલમાં ફાયદો થાય છે.

(૨) સફેદ ચણોઠીના ચુર્ણથી પકવેલું અને ભાંગરાનો રસ નાખી સીદ્ધ કરેલું તલનું તેલ માથામાં નાખવાથી દારુણક-માથાનો ખોડો મટે છે.

(૩) ચણોઠીના મુળનું ચુર્ણ સુંઘવાથી માથાના બધી જાતના દુ:ખાવા મટે છે.

(૪) ચણોઠીનાં પાન વાટીને ચોપડવાથી પીત્તથી થતાં ગુમડાં-વીસર્પ મટે છે.

(૫) ચણોઠીનાં મુળ પાણીમાં લસોટી સુંઘવાથી આધાશીશી મટે છે.

(૬) સફેદ ચણોઠીનાં પાન ખુબ ચાવીને ખાવાથી બેસી ગયેલો અવાજ ખુલી જાય છે.

(૭) સફેદ ચણોઠીનાં પાન, ચણકબાબ અને સાકર સરખા ભાગે મોઢામાં રાખી ચુસવાથી મોઢાંનાં ચાંદાં મટી જાય છે.

દેવીસૂક્ત

ફેબ્રુવારી 13, 2009

દેવીસૂક્ત

नमो देव्यै महादेव्यै शिवायै सततं नमः

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् -९

रौद्रायै नमो नित्यायै गौर्यै धात्यै नमो नमः

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः -१०

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः

नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः -११

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः -१२

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः -१३

या देवी सर्व भूतेषु विष्णुमायेति शब्दिता

नमस्तस्यै ॥१४॥ नमस्तस्यै ॥१५॥ नमस्तस्यै नमो नमः -१६

या देवी सर्व भूतेषु चेतनेत्यभिधीयते नमस्तस्ये -१७-१८-१९

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै -२०-२१-२२

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै -२३-२४-२५

या देवी सर्व भूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै -२६-२७-२८

या देवी सर्व भूतेषु छायारूपेण संस्थिता नमस्तस्यै -२९-३०-३१

या देवी सर्व भूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै -३२-३३-३४

या देवी सर्व भूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै -३५-३६-३७

या देवी सर्व भूतेषु क्षांतिरूपेण संस्थिता नमस्तस्यै -३८-३९-४०

या देवी सर्व भूतेषु जातिरूपेण संस्थिता नमस्तस्यै -४१-४२-४३

या देवी सर्व भूतेषु लज्जारूपेण संस्थिता नमस्तस्यै -४४-४५-४६

या देवी सर्व भूतेषु शांतिरूपेण संस्थिता नमस्तस्यै -४७-४८-४९

या देवी सर्व भूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै -५०-५१-५२

या देवी सर्व भूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै -५३-५४-५५

या देवी सर्व भूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै -५६-५७-५८

या देवी सर्व भूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै -५९-६०-६१

या देवी सर्व भूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै -६२-६३-६४

या देवी सर्व भूतेषु दयारूपेण संस्थिता नमस्तस्यै -६५-६६-६७

या देवी सर्व भूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै -६८-६९-७०

या देवी सर्व भूतेषुमातृरूपेण संस्थिता नमस्तस्यै -७१-७२-७३

या देवी सर्व भूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै -७४-७५-७६

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या

भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः -७७

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत्

नमस्तस्यै ॥७७॥ नमस्तस्यै ॥७८॥ नमस्तस्यै नमो नमः -८०

स्तुता सुरैः पूर्वमभीष्टसंश्रयात् तथा सरेन्द्रण दिनेषु सेविता

करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः -८१

या सांप्रतं चौद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः -८२

इति श्री देवीसूक्तम्

ऋषिरुवाच ॥८३॥

एवं स्तवादियुक्तानां देवानां तत्र पार्वती

स्नातुमभ्याययौ तोये जाह्नव्या नृपनंदन -८४

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का

शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा -८५

स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः

देवैः समेतैः समरे निशुंभेन पराजीतैः -८६

शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका

कौशिकीति समस्तेषु ततो लोकेषु गीयते -८७

तस्यां विनिर्गतायां तु कृष्णा भूत्सापि पार्वती

कालिकेति समाख्याता हिमालचकृताश्रया -८८

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम्

ददर्श चण्डो मुण्डश्च भृत्यौ शुंभनिशुंभयोः -८९

ताभ्यां शुंभायचाख्याता अतीव सुमनोहरा

काप्यास्ते स्त्री महाराज भासयंती हिमाचलम् -९०

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्

ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर -९१

स्त्रीरत्नमतिचार्वंगी द्योतयन्ती दिशस्त्विषा

सा तु तिष्ठति दैत्यैन्द्र तां भवान् द्रष्टुमर्हति -९२

यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो

त्रैलोक्ये तु समस्तानि सांप्रतं भान्ति ते गृहे -९३

ऐरावतः समानीतो गजरत्नं पुरन्दरात्

पारिजाततरुश्चायं तथैवोच्चैः श्रवा हयः -९४

विमानं हंससंयुक्तमेतत्तिष्ठति तेंगणे

रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भूतम् -९५

निधिरेष महापद्मः समानीतो धनेश्वरात्

किंजल्किनीं ददौ चाब्धिर्मालामम्लान पंकजाम् -९६

छत्रं ते वारुणं गेहे कांचनस्रावि तिष्ठति

तथायं स्यन्दनवरो यः पुराऽऽसीत्प्रजापतेः -९७

मृत्योरुत्क्रांतिदा नाम शक्तिरीश त्वया हृता

पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे -९८

निशुंभस्याब्धिजाताश्च समस्ता रतसनजातयः

वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी -९९

एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते

स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते -१००

ऋषिरुवाच ॥१०१॥

निशम्येति वचः शुंभः स तदा चंडमुंडयोः

प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् -१०२

इति चेति च वक्तव्या सा गत्वा वचनान्मम

यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु -१०३

स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने

सा देवी तां ततः प्राहश्लक्षणं मधुरया गिरा -१०४

दूत उवाच ॥१०५॥

देवि दैत्येश्वरः शुंभस्त्रैलोक्ये परमेश्वरः

दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः -१०६

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु

निर्जताखिलदैत्यारिः स यदाह शृणुष्व तत् -१०७

मम त्रैलोक्यमखिलं मम देवा वशानुगाः

यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् -१०८

त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः

तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम् -१०९

क्षीरोदमथनोद्भूतमश्वरत्नं ममामरेः

उच्चैः श्रवससंज्ञं तत्प्रणिपत्य समर्पितम् -११०

यानि चान्यानि देवेषु गंधर्वेषूरगेषु च

रत्नभूतानि भूतानि तानि मय्येव शोभने -१११

स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम्

सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् -११२

मां वा ममानुजं वापि निशुंभमुरुविक्रमम्

भजत्वं चंचलापांगि रत्नभूतासि वै यतः -११३

परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात्

एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज -११४

ऋषिरुवाच ॥११५॥

इत्युक्ता सा तदा देवी गंभीरांतः स्मिता जगौ

दुर्गा भगवती भद्रा ययेदं धार्यते जगत् -११६

देव्युवाच ॥११७॥

सत्यमुक्तं त्वया नात्र मिथ्याकिंचित्त्वयोदितम्

त्रैलोक्याधिपतिः शुंभो निशुंभश्चापि तादृशः -११८

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्

श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा -११९

यो मां जयति संग्रामे यो मे दर्पं व्यपोहति

यो मे प्रतिबलो लोके स मे भर्ता भविष्यति -१२०

तदागच्छतु शुंभोऽत्र निशुंभो वा महासुरः

मां जीत्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु -१२१

दूत उवाच ॥१२२॥

अवलिप्तासि मैवं त्वं देवि ब्रुहि ममाग्रतः

त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुंभनिशुंभयोः -१२३

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि

तिष्ठन्ति संमुखे देवि किं पुनः स्त्री त्वमेकिका -१२४

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे

शुंभादीनां कथं तेषां स्त्री प्रयास्यसि संमुखम् -१२५

सा त्वं गच्छ मयैवोक्ता पार्श्वं शुंभनिशुंभयोः

केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि -१२६

देव्युवाच ॥१२७॥

एवमेतद् बलि शुंभो निशुंभश्चातिवीर्यवान्

किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा -१२८

स त्वं गच्छ मयोक्तं ते यदेत्सर्वमादृतः

तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् -१२९

ॐ श्री मार्कण्डेय पुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये देव्यादूतसंवादोनाम पंचमोऽध्यायः ।

હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને बीजपूरफल માતાઓને ચડાવવાં.

ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

सांगायै सपरिवारायै सवाहनायै सायुधायै ।

विष्णुमायादि त्रयोविंशतिदेवतायै महाहुतिं समर्पयामि स्वाहा ॥

सघृतं बीजपूरफलं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥