Archive for ફેબ્રુવારી 2nd, 2009

ગુંદાં

ફેબ્રુવારી 2, 2009

ગુંદાં પાકાં ગુંદાં મધુર, ચીકણાં, પચવામાં ભારે અને ઠંડાં છે. પાકાં ગુંદાનું ઘીમાં વઘારેલું શાક ખાવાથી પીત્તને લીધે શરીરના ઉપરના કે નીચેના માર્ગે કે છીદ્રોથી લોહી નીકળતું હોય, નસકોરી ફુટતી હોય તો તે મટે છે. આવા દર્દીએ તીખા-ગરમ પદાર્થો ન ખાવા. મોટાં ગુંદાં શુક્રવર્ધક અને કામવર્ધક છે. ગુંદાની સીઝનમાં રોજ બેથી ત્રણ પાકાં ગુંદાં ખાવાં જોઈએ.

ચંડીપાઠ કવચ

ફેબ્રુવારી 2, 2009

કવચ

श्री गणेशाय नमः ॥ श्री सरस्वत्यै नमः ॥ ॐ नमश्चण्डिकायै.

मार्कण्डेय उवाच.

ॐ यद्गुह्यं परमं लोके सर्व रक्षाकरं नृणम्,

यत्न कस्यचिदाख्यात तन्मे ब्रुहि पितामह.।।१।।

ब्रह्मोवाच

अस्ति गुह्यतम विप्र सर्वभूतोपकारकम्,

देव्यास्तु कवच पुण्य तच्छृणुष्व महामुने.॥२॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी

तृतीयं चन्द्र घण्टेति कूष्मान्डेति चतुर्थकम्.॥३॥

पंचमं स्कंदमातेति षष्ठं कात्यायनीति च,

सप्तमं कालरात्रीति महागौरीतिचाष्टमम्.॥४॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः,

उत्कान्येतानि नामानि ब्रह्मणैव महात्मना.॥५॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे,

विषमे दुर्गमे चैव भयार्ताश्शरणं गताः.॥६॥

न तेषां जायते किंचिदशुभं रणसंकटे,

नापदं तस्य पश्यामि शोकदुःखभय न हि.॥७॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते,

ये त्वां स्मरंति देवेशि रक्षसे तान्न संशयः ॥८॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना

ऐन्द्री गजसमारूढा वैष्णवी गरूडासना ॥९॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥१०॥

श्वेतरूपधरा देवी ईश्वरीवृषवाहना

ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥११॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विता

नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥१२॥

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुला,

शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम्.॥१३॥

खेटकं तोमर चैव परशुं पाशमेव च,

कुन्तायुधं त्रिशुलं च शारंगमायुधमुत्तमम्.॥१४॥

दैत्यानां देहनाशाय भक्तानामभयाय च,

धारयन्त्यायुधानीत्यं देवानां हिताय वै.॥१५॥

नमस्तेतु महारौद्रे महाघोरपराक्रमे

महाबले महोत्साहे महाभयविनाशिनी,॥१६॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रुणां भयवर्धिनी

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥१७॥

दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी

प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥१८॥

उदीच्यां पातु कौबेरि ईशान्यां शुलधारिणी

उर्ध्वं ब्रह्माणी मे रक्षेत् अधस्ताद्वैष्णवी तथा ॥१९॥

एवं दश दिशो रक्षेत् चामुण्डा शववाहना

जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥२०॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता

शिखामुद्योतिनी रक्षेत् उमा मूर्ध्नि व्यवस्थिता ॥२१॥

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥२२॥

शंखिनी चक्षूषोर्मध्ये श्रोत्रयोर्द्वारवासिनी

कपालौ कालिका रक्षेत् कर्णमूले तु शांकरी ॥२३॥

नासिकायां सुगन्धा च उत्तरोष्ठे चर्चिका

अधरे चामृतकला जिह्वाया च सरस्वती ॥२४॥

दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका

घण्टिका चित्रघण्टा च महामाया च तालुके ॥२५॥

कामाक्षी चिबुकं मे रक्षेद्वाचं मे सर्व मंगला

ग्रीवायां भद्रकाली च पृष्टवंशे धनुर्धरी ॥२६॥

नीलग्रीवा बहिःकण्ठे नलिकां नवकूबरी

स्कंधयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥२७॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चांगुलीषु च

नखांछूलेश्वरी रक्षेत् कुक्षौ रक्षेत्कुलेश्चरी ॥२८॥

स्तनौ रक्षेन्महालक्ष्मीर्मनश्शोकविनाशिनी

हृदये ललितादेवी उदरे शूलधारिणी ॥२९॥

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा

पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥३०॥

कटया भगवती रक्षेत् जानुनी विन्ध्यवासिनी,

जंघे महाबला रक्षेत्सर्वकामप्रदायिनी ॥३१॥

गुल्फयोर्नारसिंही च पादौ चामिततेजसि

पादांगुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥३२॥

नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी

रोमकूपेषु कौबैरी त्वचं वागीश्वरी तथा ॥३३॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥३४॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा

ज्वालामुखी नखज्वालां अभेद्या सर्वसंधिषु ॥३५॥

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा

अहंकारं मनोबुद्धिं रक्षेन्मे धर्मधारिणी ॥३६॥

प्राणापानौ तथा व्यानं उदानं च समानकम्

वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥३७॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी

सत्त्वं रजस्तमस्श्चेव रक्षेन्नारायणी सदा ॥३८॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी

यशः कीर्ति च लक्ष्मीं च धनं विद्यां च चक्रणी ॥३९॥

गोत्रमिन्द्राणी मे रक्षेत् पशुन्मे रक्ष चण्डिके

पुत्रान् रक्षेन्महालक्ष्मीर् भार्यां रक्षतु भैरवी ॥४०॥

पंथानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥४१॥

रक्षाहीनं तु यत्स्थान वर्जितं कवचेन तु,

तत्सर्व रक्ष मे देवि जयन्ती पापनाशिनी ॥४२॥

(सर्वरक्षाकरं पूण्यं कवचं सर्वदा जपेत्

ईदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम्)

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः,

कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥४३॥

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः,

यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥४४॥

परमेश्वर्यमतुलं प्राप्स्यते भूतले पुमान,

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥४५॥

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्

ईदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥४६॥

यः पठेत्प्रयतो नित्यं त्रिसंध्यं श्रद्धयान्वितः

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥४७॥

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जीतः

नश्यन्ति व्याधयः सर्वे लुताविस्फोटकादयः ॥४८॥

स्थावरं जंगमं वापि कृत्रिमं चापि यद्विषम्,

अभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥४९॥

भूचराः खेचराश्चेव जलजाश्चोपदेशिकाः

सहजा कूलजा माला डाकिनी शाकिनी तथा ॥५०॥

अंतरिक्षचराघोराडाकिन्यश्च महाबलाः

ग्रहभूतपिशाचाश्च यक्षगन्धर्व राक्षसाः॥५१॥

ब्रह्मराक्षसवैतालाः कूष्माण्डा भैरवादयः

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥५२॥

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम्,

यशसा वर्धते सोऽपि कीर्ति मण्डित भूतले ॥५३॥

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा,

यावत् भूमंडलं धत्ते सशैलवनकाननम् ॥५४॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी,

देहान्ते परमं स्थानं यत्सुरैरपि दूर्लभम् ॥५५॥

प्राप्नोति पुरुपो नित्यं महामाया प्रसादतः

लभते परमं रूपं शिवेन सह मोदते ॥५६॥

इति श्री वाराहपुराणे हरिहरब्रह्मविरचितं देव्या कवचम्॥५१॥