ध्यान
ॐ बन्धूककांचननिभं रुचिराक्षमालां पाशांकुशौ च वरदां निजबाहुदंडैः
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्रमर्धाम्बिकेशमनिशं वपुराश्रयामि ॥
ॐ राजोवाच ॥१॥
विचित्रमिदमाख्यातं भगवन् भवता मम
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् -२
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते
चकार शंभो यत्कर्म निशुंभश्चतिकोपनः -३
ऋषिरुवाच ॥४॥
चकार कोपमतुलं रक्तबीजे निपातिते
शुंभासुरो निशुंभश्च हतेष्वन्येषु चाहवे -५
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्
अभ्यधावन्निशुंभोऽथ मुख्ययासुरसेनया -६
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः
सदंष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः -७
आजगाम महावीर्यः शुंभोऽपि स्वबलैर्वृतः
निहन्तुं चंडिकां कोपात्कृत्वा युद्धं तु मातृभिः -८
ततो युद्धमतीवासीद्देव्या शुंभनिशुंभयोः
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः -९
चिच्छेदास्तांछरांस्ताभ्यां चंडिका स्वशरोत्करैः
ताडयामास चांगेषु शस्त्रौघैरसुरेश्वरौ -१०
निशुंभो निशितं खड्गं चर्म चादाय सुप्रभम्
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् -११
ताडिते वाहने देवी क्षुरप्रेरणासिमुत्तमम्
निशुंभस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् -१२
छिन्ने चर्मणि खड्गे च शक्ति चिक्षेप सोऽसुरः
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् -१३
कोपाध्मातो निशुंभोऽथशूलं जग्राह दानवः
आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् -१४
आविध्याथ गदां सोऽपि चिक्षेप चंडिकां प्रति
सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता -१५
ततः परशुहस्तं तमायन्तं दैत्यपुंगवम्
आहत्य देवी बाणौधैरपातयत भूतले -१६
तस्मिन्निपतिते भूमौ निशुंभे भीमविक्रमे
भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमंबिकाम् -१७
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः
भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः -१८
तमायान्तं समालोक्य देवी शंखमवादयत्
ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् -१९
पूरयामास ककुभो निजघंटास्वनेन च
समस्त दैत्यसैन्यानां तेजोवधविधायिना -२०
ततः सिंहो महानादैस्त्याजितेभमहामदैः
पूरयामास गगनं गां तथैव दिशो दशः -२१
ततः काली समुत्पत्य गगनं क्षमामताडयत्
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः -२२
अट्टाट्टहासमशिवं शिवदूती चकार ह
तैः शब्दैरसुरास्त्रेसुः शुंभः कोपं परं ययौ -२३
दुरात्मंस्तिष्ठ तिष्ठेति व्याजहारांबिका यदा
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः -२४
शुंभेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा
आयान्ती वह्निकूटाभा सा निरस्ता महोल्क्या -२५
सिंहनादेन शुंभस्य व्याप्तं लोकत्रयान्तरम्
निर्घातनिःस्वनो घोरो जीतवानवनीपते -२६
शुंभमुक्तांछरान्देवी शुंभस्तत्प्रहितांछरान्
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः -२७
ततः सा चंडिका क्रुद्धा शूलेनाभिजघान तम्
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह -२८
ततो निशुंभः संप्राप्य चेतनामात्तकार्मुकः
आजघान शरैर्देवीं कालीं केसरिणं तथा -२९
पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः
चक्रायुधेन दितिजश्छादयामास चंडिकाम् -३०
ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी
चिच्छेद तानि चक्राणि स्वशरैः सायकांश्च तान् -३१
ततो निशुंभो वेगेन गदामादाय चंडिकाम्
अभ्यधावत वै हन्तुं दैत्यसेनासमावृतः -३२
तस्यापतत एवाशु गदां चिच्छेद चंडिका
खड्गेन शितधारेण स च शूलं समाददे -३३
शूलहस्तं समायांतं निशुंभममरार्दनम्
हृदि विव्याध शूलेन वेगाविद्धेन चंडिका -३४
भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् -३५
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः
शिरश्चच्छेद खड्गेन ततोऽसावपतद्भुवि -३६
ततः सिंहश्चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान्
असुरांस्तांस्तथा काली शिवदूती तथा परान् -३७
कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः
ब्रह्माणीमंत्रपूतेन तोयेनान्ये निराकृताः -३८
माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे
वाराहीतुंडघातेन केचिच्चूर्णीकृता भुवी -३९
खंडं खंडं च चक्रेण वैष्णव्या दानवाः कृताः
वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे -४०
केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात्
भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः -४१
ॐ इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वंतरे देवी माहात्म्ये निशुंभवधो नाम नवमोऽध्यायः ।
હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને કોળાના ટૂકડા અથવા શેરડીના ટૂકડા માતાઓને ચડાવવા.
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
सांगायै सपरिवारायै सवाहनायै सायुधायै ।
वाग्भवबीजाधिष्ठात्र्यै महाकाल्यै महाहुतिं समर्पयामि स्वाहा ॥
सघृतं कुष्मांडखंडं इक्षुखंडं वा नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥